||Sundarakanda ||

|| Sarga 35||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||


॥ओम् तत् सत्॥

सुंदरकांड.
अथ अष्टत्रिंशस्सर्गः

ततः स कपिशार्दूलः तेन वाक्येन हर्षितः।
सीतामुवाच तत् श्रुत्वा वाक्यं वाक्य विशारदः॥1||

स॥ ततः तत् वाक्यं श्रुत्वा तेन वाक्येन हर्षिता वाक्य विशारदः कपिशार्दूलः सीतां उवाच॥

The Best among Vanaras, eloquent in speech, having heard those words, was delighted and spoke to Sita.

युक्तरूपं त्वया देवि भाषितं शुभदर्शने।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च॥2||
स्त्रीत्वं न तु समर्थ हि सागरं व्यतिवर्तितुम्।
मा मधिष्ठाय विस्तीर्णं शतयोजन मायतम्॥3||
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते।
रामात् अन्यस्य नार्हामि संस्पर्शमिति जानकि॥4||
एतत् ते देवि सदृशं पत्न्यास्तस्य महात्मनः।
का ह्यान्या त्वा मृते देवि ब्रूयात् वचन मीदृशम् ॥5||
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः।
चेष्ठितं य त्वया देवि भाषितं ममचाग्रतः॥ 6||

स॥ हे शुभदर्शने देवि त्वया भाषितं युक्तरूपं सदृशं स्त्री स्वभावस्य साद्वीनां विनयस्य च॥मम अधिष्ठाय शतयोजनं विस्तीर्णं सागरं व्यतिवर्तितुं स्त्रीत्वं न समर्थं हि ॥हे जानकी विनयान्विते द्वितीयं कारणं यत् ब्रवीषि रामात् अन्यस्य संस्पर्शं न अर्हामि इति तत् ॥ देवि ! एतत महात्मनः पत्न्याः तस्य सदृशं । त्वं ऋते अन्याः काः ईदृशं वचनं ब्रूयात् ॥काकुत्स्थः सर्वं देवि त्वया यत् चेष्टितं ममाग्रतः भाषितं च सर्वं निरवशेषतः श्रोष्यते॥

Oh Devi , whose appearance is auspicious, What you said is proper , and is appropriate for a woman's nature, and the nature of a virtuous woman. Climbing up on my back and to cross hundred Yojana wide ocean is not possible for a woman. Oh Janaki imbued with humility the second reason which you told is that other than Rama you cannot touch another person. Oh Devi ! This is appropriate for the wife of the great soul. Other than you who else can say such words. Oh Devi ! Whatever you have done or said in front of me will be heard by the scion of Kakutstha.

कारणैर्बहुभिर्देवि रामप्रिय चिकीर्षया।
स्नेहप्रस्कन्न मनसा मयैतत् समुदीरितम्॥7||
लंकाया दुष्प्रवेशत्वात् दुस्तरत्वान्महोदधे।
सामर्थ्यात् अत्मनश्चैव मयैतत् समुदीरितम्॥8||
इछ्छामि त्वां समानेतुं अद्यैव रघुबंधुना।
गुरुस्नेहेन भक्त्या च नान्यथैतत् उदाहृतम्॥9||
यदि नोत्सहसे यातुं मया सार्थ मनिंदिते।
अब्जिज्ञानं प्रयच्छ त्वं जानीयात् राघवो हि तत्॥10||

स॥ देवि बहुभिः कारणैः रामप्रियचिकीर्षया स्नेहप्रस्कन्न मनसा मया एतत् समुदीरितं ॥लंकाया दुष्प्रवेशत्वात् महोदधेः दुस्तरत्वात् आत्मनः सामर्थ्याश्चैव मया एतत् समुदीरितं॥गुरुस्नेहेन भक्त्याच त्वां रघुबंधुना अद्यैव समानेतुं एतत् ( कथितं) न अन्यथा उदाहृतं॥ अनिंदिते ममसार्थं यातुं न उत्सहे यदि ततः यत् राघवः जानीयात् (तत्) अभिज्ञानं त्वं प्रयच्छ॥

' Oh Devi with many reasons with a mind sprinkled with love, desiring to please Rama, I have said those words. The difficulty of entering Lanka, difficulty of crossing the ocean , and my own capability made me tell you this. Out of love and devotion for my master, to unite you with the scion of Raghu today itself, I said those words and not otherwise. Oh Blameless lady ! If you do not like to go along with me then give me a token of remembrance that Raghava knows.'

एवमुक्ता हनुमता सीता सुरसुतोपमा।
उवाच वचनं मंदं भाष्पप्रग्रथिताक्षरम्॥11||
इदं श्रेष्ठं अभिज्ञानं ब्रूयास्त्वंतु मम प्रियम्।

स॥ एवं उक्ता हनुमता सुरसोपमा सीता भाष्प प्रगरथिताक्षरं वचनं मंदं उवाच॥त्वं इदं श्रेष्ठं मम प्रियं अभिज्ञानं ब्रूयास्तु ।

Being told thus by Hanuman, Sita resembling a gods daughter, spoke in a low tone with words choked with tears. " This best token of remembrance you may tell my dear one."

शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा॥12||
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके।
तस्मिन् सिद्धाश्रमे देशे मंदाकिन्या ह्यदूरतः॥13||
तस्योपवनषंडेषु नानापुष्पसुगंधिषु।
विहृत्य सलिलक्लिन्ना तवांके समुपाविशम्॥14||

स॥ पुरा पूर्वोत्तरे शैलस्य चित्रकूटस्य पादे प्राज्ञमूलफलोदके तस्मिन् सिद्धाश्रमे देशे मंदाकिन्यां अदूरतः तापसाश्रमवासिन्याः मः॥ तस्य उपवनसंडेषु नानापुष्पसुगंधिषि सलिलक्लिन्ना विहृत्य तवांके समुपाविशं॥

' Earlier in the northeast part of Chitrakuta mountain, there is a Siddhasrama at its foot, not too far from river Mandakini, where we were living in the ascetics hermitages. In those gardens with variety of fragrant flowers after sporting in the waters I was resting in your lap.

ततो मांस समायुक्तो वायसः पर्यतुंडयत्।
त महं लोष्टमुद्यम्य वारयामि स्म वायसम्॥15||
दारयन् स च मां काकः तत्रैव परिलीयते।
न चाप्युपारमन् मांसात् भक्षार्थि बलिभोजनः॥16||
उत्कर्षानां च रशनां क्रुद्धायां मयि पक्षिणि।
स्त्रस्यमाने च वसने ततो दृष्ट्वा त्वया ह्यहम्॥17||

स॥ ततः मांससमायुक्तः वायसः पर्यतुंडयत् । अहं लोष्टं उद्यम्य तं वायसं वारयामि स्म॥ सः काकः माम् दारयन् तत्रैव परिलीयते । भक्ष्यार्थि बलिभोजनः मांसात् न उपरिमत् च अपि ॥मयि पक्षिणि कृद्धायाम् वसने स्त्रस्यमाने च रशनाम् उत्कर्षन्यां च ततः त्वया अहं दृष्टा॥

' Then a crow came with meat, went round and was pecking with its beak. I took a piece of earth and was warding him off. That crow while pecking at me waited there only hungry for food being a eater of offerings, without not giving up the flesh. Angry with the bird I was seen by you while I was pulling up my waist string as the cloth was slipping '.

त्वयापsहसिता चाहं क्रुद्धा संलज्जिता तदा।
भक्षगृध्नेन काकेन दारिता त्वामुपागता॥18||
असीनस्य च ते श्रांता पुनरुत्संगमाविशम्।
क्रुध्यंती च प्रहृष्टेन त्वयाsहं परिसांत्विता॥19||
भाष्पपूर्ण मुखी मंदं चक्षुषी परिमार्जती।
लक्षिताsहं त्वया नाथ वायसेन प्रकोपिता॥20||

स॥ तदा क्रुद्धा अहं अपहसिता । संलज्जिता भक्षगृध्नेन काकेन दारिता त्वां उपागता ॥श्रांता आसीनस्य उत्सांगं पुनः आविशं। कृध्यंति अहं प्रहृष्टेन त्वया परिसांत्विता ॥हे नाथ वायसेन प्रकोपिता बाष्पपूर्णमुखी मंदं चक्षुषी परिमार्जती अहं त्वया लक्षिता॥

' I was angry at being laughed at. Embarrassed and torn by the voracious bird, I sought you. Exhausted , I sat on your lap again. Being angry I was happily pacified by you again. Oh Lord angered by the crow, face filled with tears, slowly wiping them I was noticed by you' .

परिश्रमात् प्रसुप्ताच राघवांकेsप्यहं चिरम्।
पर्यायेण प्रसुप्तश्च ममांके भरताग्रजः॥21||
स तत्र पुनरे वाथ वायसः समुपागमत्।
ततः सुप्त प्रबुद्धां मां रामस्यांकात् समुत्थितम्॥22||
वायसः सहसागम्य विददार स्तनांतरे।
पुनः पुनरथोत्पत्य विददार स मां भृशम्॥23||

स॥ अहं अपि परिश्रमात् राघवांके चिरं प्रसुप्ता च । पर्यायेण भरताग्रजः मम अंके प्रसुप्तः॥अथ स वायसः पुनरेव तत्र समुपागमत् । ततः सः वायसः सहसा आगम्य सुप्तप्रबुद्धां रामस्य अंकात् समुत्थितां माम् स्तनांतरे विददार। अथ पुनः उत्पत्य मां भृशं विददार ॥

' Due to exhaustion I too slept in the lap of Raghava. In turn the Bharata's elder slept in my lap. Then that crow again came back to that place. That crow came quickly clawed between my breasts as I woke up from Rama's lap. Then the crow flying in again repeatedly clawed at me'.

ततः समुत्क्षितो रामो मुक्तैः शोणितबिंदुभिः।
वायसेन ततस्तेन बलवत् क्लिश्यमानया॥24||
स मया बोधितः श्रीमान् सुखसंतप्तः परंतपः।
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोः तदा॥25||
अशीविष इव क्रुद्धः श्वसन् वाक्य मभाषत।

स॥ ततः रामः मुक्तैः शोणित बिंदुभिः समुक्षितः । ततः तेन वायसेन बलवत् क्लिस्यमानया मया श्रीमान् परंतपः सुखसुप्तः सः बोधितः॥महाबाहुः सः तदा स्तनयोः वित्रुन्नां मां दृष्ट्वा कृद्धः आशीविषैव श्वसन् वाक्यं अभाषत॥

'Then the happily sleeping Illustrious scorcher of foes was awakened by the dripping drops of blood. Rama saw me being forcibly tormented by the crow. The Rama of powerful arms , seeing me wounded in the breasts, angered, hissing like a serpent spoke these words'.

केन ते नाग नासोरु विक्षतं वै स्तनांतरम्॥26||
कः क्रीडति स रोषेण पंच वक्त्रेण भोगिना।
वीक्षमाणः ततः तं वै वायसं समुदैक्षत॥27||
नखैः सरुधिरैः तीक्ष्णैर्मामेवाभिमुखं स्थितम्।
पुत्रः किल स शक्रस्य वायसः पततां वरः॥28||
धरांतरगतः शीघ्रं पवनस्य गतौ समः।

स॥ नागनासोरु सीता स्तनांतरं केन विक्षतं वै सरोषेण पंचवक्त्रेण भोगिना कः क्रीडति॥ ततः वीक्षमाणः सरुधिरैः तीक्षणैः नखैः मामेव अभिमुखं स्थितं तं वायसं समुदेक्षत वै॥पततां वरः सः वायसः शक्रस्य पुत्रः किल धरांतरगतः शीघ्रं गतौ पवनस्य समः॥

"Oh Lady whose thighs shine like elephant trunk ! by whom is your breast wounded ? Who is sporting with five hooded snake? Then looking around he saw the crow standing with blood stained nails, facing me only. Eminent among birds that crow is said to be the son of Indra, He covered long distance in one movement with speed of wind god '.

ततः तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः॥29||
वायसे कृतवान् क्रूरां मतिं मतिमतां वरः।
स दर्भं संस्तरात् गृह्य ब्राह्मेणास्त्रेण योजयत्॥30||
स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्।
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति॥31||
ततः तं वायसं दर्भस्सोंबरेनुजगाम ह।

स॥ ततः मतिमतां वरः महाबाहुः कोपसंवर्तितेक्षणः तस्मिन् वायसे क्रूरां मतिं कृतवान् ॥सः संस्तरात् दर्भं गृह्य ब्राह्मेण अस्त्रेण योजयत् । सः दीप्तः कालाग्निरिव द्विजं अभिमुखः जज्वाल॥ सः प्रदीप्तं तं दर्भं तं वायसं प्रति चिक्षेप । ततः सः दर्भः तं वायसं अंबरे अनुजगाम ह॥

' Then the best among the wise, with powerful arms, with eyes rolling in anger, made up his mind about the cruel crow. Then taking out a blade of grass from the Dharbha mat, he invoked the weapon of Brahma. It blazed like the fire at the time of dissolution, glowed towards the bird. He then threw the glowing Dharbha towards the crow. Then that Dharbha followed the crow across the skies' .

अनुश्रुष्टः तदा काको जगाम विविधां गतिम्॥32||
लोककाम इमं लोकं सर्वं वै विचचार ह।
स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः॥33||
त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः।
स निपतितं भूमौ शरण्यः शरणागतम्॥34||
वधार्हमपि काकुत्स्थः कृपया पर्यपालयत्।

स॥ तदा काकः अनुश्रुष्टः विविधं गतिं जगाम । लोककामः इमं सर्वं लोकं विचचार ह॥सः त्रीन् लोकान् संपरिक्रम्य पित्रा च समहर्षिभी सुरैश्च परित्यक्तः तमेव शरणं गतः ॥शरण्यः स काकुत्स्थः शरणागतं भूमौ निपतितां तं वधार्हं अपि कृपया पर्यपालयत्॥

' Then the crow being thus followed went to many places. Desiring safety he went around the whole universe. He having gone around the three worlds, rejected by his father, the sages and all the gods too, came back to seek your protection. That Kakutstha, the savior who saves those who seek refuge, saved the crow fallen on the ground seeking refuge even through it deserves to be killed'.

परिद्यूनं विषण्णं च स त मायांतं अब्रवीत्।
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्॥36||
हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोब्रवीत्।
ततः तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्॥
दत्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितं॥37||
स रामाया नमस्कृत्वा राज्ञे दशरथाय च।
विसृष्टेन वीरेण प्रतिपेदे स्वमालयम्॥38||

स॥ सः परिद्यूनं विषण्णं आयांतं तं अब्रवीत् । ब्रह्मं अस्त्रं मोघं कर्तुं न शक्यं तु । तत् उच्यताम्॥अथ सः अब्रवीत् त्वत् शरः दक्षिनाक्षि हिनस्तु इति । ततः सः तस्य काकस्य दक्षिणं अक्षि हिनस्ति स्म। सः दक्षिणम् दत्वा प्राणेभ्यः परिरक्षितः ॥सः रामाय नमस्कृत्वा राज्ञे दशरथाय तेन वीरेण विशृष्टः च स्वं आलयम् प्रतिपेदे।

' Rama spoke to the one who reached him, who is pained and despondent. "The weapon of Brahma cannot be in vain. That you tell me". Then he said "your arrow may blind the right eye". Then that crow's right eye is blinded. He gave his right eye and saved his own life. He having paid obeisance to Rama and the king Dasaratha, permitted to leave, then went back to his abode.

मत्कृते काकमात्रेतु ब्रह्मास्त्रं समुदीरितम्।
कस्माद्योमा हरेत् त्वत्तः क्षमसे तं महीपते॥39||
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ।
त्वया नाथवती नाथ ह्यनाथा इव दृश्यते॥40||

स॥ महीपते मत्कृते काकमात्रे ब्रह्मास्त्रं समुदीरितं त्वत्तः मां यः अहरन् तं कस्मात् क्षमसे॥नरर्षभ सः महोत्साहः मयि कृपां कुरुष्व। नाथ त्वया नाथवती अनाथा इव दृश्यते॥

' Oh King ! For my sake, weapon of Brahma was released on the crow. Why are you excusing him who abducted me. Oh Bull among men ! Let him with great love show compassion on me. Oh Lord your dependent appears like an orphan '.

अनृशंस्यं परो धर्मः त्वत्त एव मया श्रुतः।
जानामि त्वां महावीर्यं महोत्साहं महाबलम्॥41||
अपारपार मक्षोभ्यं गांभीर्यात् सागरोपमम्।
भर्तारं ससमुद्राया धरण्या वासवोपमम्॥42||

स॥अनृशंस्यं परः धर्मः मया त्वत्तः एव श्रुतः । त्वं महावीर्यं महोत्साहं महाबलं अपरापरं अक्षोभ्यं गंभीर्यात् सागरोपमं समुद्रायाः धरण्याः भर्तारं वासवोपमं जानामि ॥

' Kindness, supreme , righteousness was heard by me from you only. You are heroic, vigorous, boundless, never to be stirred, deep like an ocean , lord of the earth and sea, equal to Vasava'.

एवमस्त्रविदां श्रेष्ठः सत्ववान् बलवानपि।
किमर्थं अस्त्रं रक्षस्सु न योजयति राघवः॥43||
न नाग नापि गंधर्वा नासुरा न मरुद्गणाः॥44||
रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम्।
तस्य वीर्यवतः कश्चित् यद्यस्ति मयि संभ्रमः॥45||
किमर्थं न शरैः तीक्ष्णैः क्षयं नयति राक्षसान्।

स॥ राघव एवं अस्त्रविदां श्रेष्ठः सत्यवान् बलवान् अपि रक्षस्सु अस्त्रं किमर्थं न योजसि॥समरे रामस्यवेगं प्रतिसमाधितुं न नागाः न गंधर्वा न सुराः न मरुद्गणाः अपि शक्ताः ॥वीर्यवतः तस्य मयि कश्चित् संभ्रमः अस्ति यदि ततः तीक्ष्णैः बाणैः राक्षसान् किमर्थं क्षयं न नयति॥

' Oh Raghava ! Being the best of users of weapons, truthful and powerful, why are you not using the weapons against the Rakshasas. Neither Nagas, Gandharvas, Suras, Maruts are capable of matching the speed of Rama to hit back in a battle. If the hero of great discipline has even a little anxiety about me then with sharp arrows why not destroy the Rakshasas'.

भ्रातुरादेशमादाय लक्ष्मणोवा परंतपः॥46||
कस्य हेतोर्नमां वीरं परित्राति महाबलः।
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसम तेजसौ॥47||
सुराणामपि दुर्दर्षौ किमर्थं मामुपेक्षतः।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः॥48||
समर्था व पि तौ यन्मां नावेक्षेते परंतपौ।

स॥ परंतपः महाबलः वीरः लक्ष्मणो वा भ्रातुः आदेशं आदाया कस्यहेतोः माम् न परित्राति ॥ वाय्वग्निसमतेजसौ पुरुषव्याघ्रौ तौ सुराणां दुर्धर्षौ यदि अपि मां किमर्थं उपेक्षतः॥ममैव महत् किंचित् दुष्कृतं अस्ति ।संशयः न । यत् समर्थावपि परंतपौ तौ माम् न आवेक्षेते॥

' The scorcher of enemies, powerful warrior Lakshmana, for what reason he is not coming to my rescue taking order from his brother. The two tigers among men, resembling fire and wind , unassailable even for gods, why are they disregarding me. Some great sin has been committed by me. There is no doubt. Although capable scorcher of enemies, they are not delivering me ( from my troubles)

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्॥49||
अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः।

स॥ अथ महातेजा मारुतात्मजः हनुमान् वैदेह्याः साश्रुभाषितं करुणं वचनं श्रुत्वा अब्रवीत् ॥

Then the powerful son of wind god, Hanuman hearing those piteous words spoken by Sita with tears, spoke in reply.

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे॥50||
रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते।
कथंचित् भवती दृष्टा न कालः परिशोचितुम्॥51||
इमं मुहूर्तं दुःखानां द्रक्ष्यस्यंतमनिंदिते।
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ॥52||
त्वद्दर्शन कृतोत्साहौ लंकां भस्मीकरिष्यतः।
हत्वा च समरे क्रूरं रावणं स बांधवम्॥53||
राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति।

स॥ देवि रामः त्वत् शोकविमुखः । सत्येन ते शपे ।रामे दुःखाभिपन्ने लक्ष्मणः परितप्यते ॥कथंचित् भवती दृष्ट्वा परिदेवितुं कालः न। अनिंदिते इमं मुहूर्तं दुःखानां अंतं द्रक्ष्यसि॥पुरुषव्याघ्रौ महाबलौ त्वत् दर्शन कृतोत्साहौ उभौ तौ राजपुत्रौ लंकां भस्मीकरिष्यतः॥विशालाक्षी राघवः सहबांधवं कॄरं रावणं हत्वा स्वां पुरीं प्रति त्वां नेष्यति ॥

' Oh Devi ! Rama is averse to you being in sorrow. I vouch for the truth. Rama being immersed in sorrow, Lakshmana wails. Now that somehow you having been found, this not time for sorrowing. Oh Blameless lady ! This moment you are seeing the end of your sorrows. The two tigers among men, powerful are anxious for seeing you. The two princes will reduce the Lanka to ashes. Oh Wide eyed lady ! Raghava along with his relatives after killing evil Ravana, will take you to his city'.

ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः॥54||
सुग्रीवो वापि तेजस्वी हरयोsपि समागतः।
इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा॥55||
उवाच शोक संतप्ता हनूमंतं प्लवंगमम्।

स॥ राघवः यत् वाच्यः महाबलः लक्ष्मणश्च तेजस्वी सुग्रीवो अपि समागताः हरयो अपि ब्रूहि॥तस्मिन् इत्युक्तवति सुरसुतोपमा सीता शोक संतप्ता प्लवंगमं हनुमंतं उवाच॥

' Tell me the those words for mighty Raghava, the powerful Lakshmana, the brilliant Sugriva and all other Vanaras gathered there'. Thus asked, Sita who is like a divine lady, immersed in sorrow , spoke to Hanuman the best among fliers.

कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी॥56||
तं ममार्थे सुखम् पृछ्च शिरसा चाभिवादय।
स्रजश्च सर्वरत्नानि प्रियायाश्च वरांगना॥57||
इश्वर्यं च विशालायां पृथिव्यां अपि दुर्लभम्।
पितरं मातरं चैव सम्मान्याभिप्रसाद्यच॥58||
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः।

स॥ लोकभर्तारं यं मनस्विनी कौसल्या सुषुवे तं मदर्थं सुखं पृच्छ शिरसा अभिवादय च ॥येन सुमित्रा सुप्रजाः स्रजश्च सर्वरत्नानि प्रियाः याः वरांगन्याः विशालायां पृथिव्यां दुर्लभं इश्वर्ये चापि पितरं मातरं चापि सम्मान्य अभि प्रसाद्य च रामं अनुप्रव्राजितः॥

' For my sake bowing the head, ask the well-being of him, who is the lord of the worlds whom Kausalya bore. Lakshmana, the son of Sumitra who gave up all riches garlands, his dear wife , the best of women , the vast kingdom which is most difficult to obtain and also prosperity , who having respected his father and mother, was pleased to adopt the ascetic life and accompanied Rama.

अनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्॥59||
अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने।
सिंहस्कंधो महाबाहुः मनस्वी प्रियदर्शनः॥60||
पितृवत् वर्तते रामे मातृन्मां समाचरन्।
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः॥61||
वृद्धोपसेवी लक्ष्मीवान् शक्तोन बहुभाषिता।
राजपुत्त्रः प्रियश्रेष्ठः सदृशः श्वसुरस्यमे॥62||

स॥धर्मात्मा अनुत्तमं सुखं त्यक्त्वा भ्रातरं काकुत्स्थं वने आनुकूल्येन पालयन् अनुगच्छति॥सिंहस्कंधः महाबाहुः मनस्वि प्रियदर्शनः माम् मात्रुवत् समाचरन् रामे पित्रुवत् वर्तते॥वीरः लक्ष्मणः तदा माम् ह्रियमाणं न वेद वृद्धोपसेवी लक्ष्मीवान् शक्तः न बहुभाषिता मे श्वशुरस्य सदृशः प्रियः श्रेष्ठः राजपुत्रः॥

' Great, righteous Lakshmana who had given up his pleasures and followed his brother into the forest in order to be able to serve him, Lakshmana who is lion shouldered, with powerful arms, high souled, handsome , who treats Rama as his father and treats me like his mother. Heroic Lakshmana who did not know when I was being carried away, who serves elders, prosperous, energetic reserved in his speech like my father in law, is dear to Rama,

मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः।
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्॥63||
यं दृष्ट्वा राघवो नैव वृत्तं आर्यमनुस्मरेत्।
स ममार्थाय कुशलं वक्तव्यो वचनान्मम॥64||

स॥ रामस्य भ्राता लक्ष्मणः नित्यं मम प्रियतरः वीर्यवान् यस्यां धुरि नियुक्तः तां उद्वहति॥यं दृष्ट्वा राघवः वृत्तं आर्यं न अनुस्मरेत् सः मम आर्थाय मम वचनात् कुशलं वक्तव्यः॥

Rama's brother who is always dear to me, the heroic Lakshmana who will discharge whatever task assigned to him, seeing whom for support, Rama does not miss the noble one , for my sake with my words enquire about his welfare.

मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः।
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्॥65||
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम॥

स॥ वानरश्रेष्ठः हरिसत्तमः मृदुः नित्यं शुचिः दक्षः रामस्य प्रियः लक्ष्मणः यथा दुःखक्षयकरो भवेत् अस्मिन् कार्यनियोगे त्वं प्रमाणं॥

' Oh best of Vanaras act in such a manner that Lakshmana who is soft, pure, competent and dear to Rama, can mitigate my suffering. You are a competent in accomplishing this task'.

राघवः त्वत्समारंभान्मयि यत्नपरो भवेत्॥66||
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः।
जीवितं धारयिष्यामि मासं दशरथात्मज॥67||
ऊर्ध्वं मासान्न जीवेयं सत्ये नाहं ब्रवीमि ते।
रावणे नोपरुद्धां मां निकृत्या पापकर्मणा॥68||
त्रातुमर्हसि वीर त्वं पाताळादिव कौशिकीम्।

स॥ राघवः त्वत् समारंभात् मयि यत्नपरः भवेत् मे नाथं शूरं रामं पुनः पुनः इदं ब्रूयाः॥दशरथात्मज मासं जीवितं धारयिष्यामि । मासात् ऊर्ध्वं न जीवेयं। अहं सत्येन ते ब्रवीमि॥वीर पापकर्मणा रावणेन निकृत्य उपरुद्धां मां त्वं पाताळात् कौशिकीं इव त्रातुम् अर्हसि॥

' By your efforts alone Raghava will try for my release. You tell these words to my husband powerful Rama again and again. "Oh Son of Dasaratha I will live for one more month. Beyond this month I will not live. I am telling you the truth. Oh Hero ! From the insulting imprisonment by Ravana you can rescue me like Kausika was rescued from the underworld".

ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्॥69||
प्रदेयो राघवायेति सीता हनुमते ददौ।
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्॥70||
अंगुळ्या योजयामास न ह्यस्य प्राभवद्भुजः।

स॥ ततः सीता वस्त्रगतं शुभं दिव्यं चूडामणिं मुक्त्वा राघवाय प्रदेयः इति हनुमते ददौ॥तत्ः वीरः अनुत्तमं मणिरत्नं प्रतिगुह्य अंगुल्या योजयामास अस्य भुजः न प्राभवत् हि॥

' Then Sita took out the divine Chudamani tied up in her clothes and gave it to Hanuman to be given to Rama. Then the hero Hanuman taking the excellent jewel placed it on his finger as it was not fitting his arm'.

मणिरत्नं कपिवरः प्रतिगृह्यsभिवाद्य च॥71||
सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः।
हर्षेण महता युक्तः सीता दर्शनजेन सः॥72||
हृदयेन गतो रामं शरीरेण तु विष्ठितः॥73||

स॥ कपिप्रवीरः मणिरत्नं प्रतिगुह्य सीतां अभिवाद्य च प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः॥सः सीतादर्शनजेन महता हर्षेण युक्तः हृदयेन रामं गतः शरीरेण तु विष्ठितः॥

' Then the best of Vanaras, taking the jewel bowing to Sita, circumambulating her, stood next to her. He, delighted by having seen Sita, stood there physically, but reached Rama in his heart.

मणिवरमुपगृह्य महार्हं जनकनृपात्मजया धृतं प्रभावात्।
गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे॥74||

स॥ महार्हं जनकनृपात्मजया धृतं तं मणिवरं उपगृह्य प्रभावात् पवनावधूतमुक्तः गिरिरिव सुखितमनाः प्रतिसंक्रमं प्रपेदे॥

Having received the most precious jewel from the daughter of Janaka, Hanuman prepared to return like a mountain released from the impact of wind, very much pleased.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टत्रिंशस्सर्गः ॥

Thus ends the Sarga thirty eight of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki.
॥ओम् तत् सत्॥